|| Devi Mahatmyam||

|| Sapta Sati||

||Chapter 4||


||om tat sat||

Select text in Devanagari Telugu Kannada Gujarati English

श्री श्रीचण्डिका ध्यानमु
याचण्डी मधुकैट बाधिदलनी या माहीषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्दमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी यासिद्धिदात्री परा
सा देवी नवकोटि मूर्ति सहिता मांपातु विश्वेश्वरी॥
॥ओम् तत् सत्॥
=============
शक्रादि स्तुति
देवी माहात्म्ये चतुर्धोध्यायः॥

ऋषिरुवाच॥
शक्रादयः सुरगणा निहतेऽति वीर्ये
तस्मिन् दुरात्मनि सुरारिबले च देव्या।
तां तुष्टुवुः प्रणति नम्र शिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहा ॥1||

देव्या यया ततमिदं जगदात्म्य शक्त्या
निः शेषदेवगणशक्ति समूहमूर्त्या।
तामम्बिकां अखिलदेव महर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः॥2||

यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तु मलं बलं च।
सा चण्डिकाऽखिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु॥3||

या श्रीः स्वयं सुकृतीनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
त्वां त्वां नताः स्म परिपालय देवि विश्वम्॥4||

किं वर्णयाम तवरूप मचिन्त्य मेतत्
किञ्चाति वीर्यमसुरक्षयकारि भूरि।
किं चाहवेषु चरितानि तवाति यानि
सर्वेषु देव्यसुरदेवगणादि केषु॥5||

हेतुः समस्त जगतां त्रिगुणापि दोषैः
न ज्ञायसे हरिहरादिभिरप्यपारा।
सर्वाश्रयादखिलमिदं जगदंशभूत
मव्याकृताहि परमा प्रकृतिः त्वमाद्या॥6||

यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि।
स्वाहासि वै पितृ गणस्य हेतु
रुच्चार्यसे त्वमत एव जनैः स्वधा च॥7||

यामुक्ति हेतुरविचिन्त्य महाव्रतात्वं
अभ्यस्यसे सुनियतेन्द्रिय तत्त्वसारैः।
मोक्षार्धिभिः मुनिभिरस्तसमस्तदोषैः
र्विद्याऽसि सा भगवती परमाहि देवि॥8||

शब्दात्मिका सुविमलर्ग्यजुषां निधानं
उद्गीधरम्य पदपाठवतां च साम्नाम्।
देवी त्रयी भगवती भवभावनाय
वार्ता च सर्वजगतां परमार्तिहन्त्री॥9||

मेधाऽसि देवि विदिताखिलशास्त्रपारा
दुर्गाऽसि दुर्गभवसागरनौरसङ्गा।
श्रीः कैटभारिहृदयैक कृताधिवासा
गौरी त्वमेव शशि मौळिकृत प्रतिष्ठा॥10||

ईषत्सहास ममलं परिपूर्णचन्द्र
बिम्बानुकारि कनकोत्तमकान्तिकान्ताम्।
अत्यद्भुतं प्रहृतमात्तरूषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण॥11||

दृष्ट्वातु देवि कुपितं भ्रुकुटीकराळ
मुद्यच्छशांक सदृशच्छवि यन्न सद्यः।
प्राणान् मुमोच महिषः तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तक दर्शनेन॥12||

देवी प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि।
विज्ञातमेतदधुनैव यदस्तमेतन्
नीतं बलं सुविपुलं महिषासुरस्य॥13||

ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः।
धन्यास्त एव निभृतात्मजभृत्यदारा
एषां सताभ्युदयदा भवती प्रसन्ना॥14||

धर्म्याणि देवि सकलानि सदैव कर्मा
ण्यत्यादृतः प्रतिदिनं सुकृती करोति।
स्वर्गं प्रयाति च ततो भवती प्रसादा
ल्लोकत्रयेऽपि फलदा ननु देवि तेन॥15||

दुर्गे स्मृता हरसि भीति मशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकार करणाय सदार्द्र चित्ता॥16||

एभिः हतैर्जगदुपैति सुखं तथै ते
कुर्वन्तु नाम नरकाय चिराय पापम्।
संग्राम मृत्युरधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान् विनिहंसि देवि॥17||

दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम्।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्र पूता
इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी॥18||

खड्ग प्रभानिकर विस्फुरणैः तथोग्रैः
शूलाग्र कान्तिनिवहेन दृशोऽसुराणाम्।
यन्नागता विलयमंशुमदिंदुखण्ड
योग्याननं तव विलोकयतां तदेतत्॥19||

दुर्वृत्तवृत्त शमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्य मन्यैः।
वीर्यं च हन्तृ हृत देव पराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम्॥20||

केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र।
चित्तेकृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि॥21||

त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्थनि तेऽपि हत्वा।
नीता दिवं रिपुगणाभयमप्यपास्तं
अस्माकमुन्मदसुरारिभवं नमस्ते॥22||

शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च ॥23||

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे।
भ्रामणेनात्म शूलस्य उत्तरस्यां तथेश्वरी॥24||

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते।
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवम्॥25||

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः॥26||

ऋषिरुवाच॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैः नन्दनोद्भवैः।
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः॥27||

भक्त्या समस्तैः त्रिदशैः दिव्यैः धूपैः सुधूपिता।
प्राह प्रसाद सुमुखी समस्तान् प्रणतान् सुरान्॥28||

देव्युवाच॥

व्रियताम् त्रिदशाः सर्वे यदस्मतो अभिवांचितम्।
(दद्यामहमति प्रीत्या स्तवैरेभिः सुपूजिता॥)29||

देवा ऊचुः॥

भगवत्या कृतं सर्वं न किंचिदवशिष्यते।
यदयं निहतः शत्रुरस्माकं महिषासुरः॥30||

यदि चापि वरो देयः त्वयाऽ स्माकं महेश्वरि।
संस्मृता संस्मृता त्वं नो हिं सेथाः परमापदः॥31||

यश्च मर्त्यः स्तवैरेभिः त्वां स्तोष्यत्यमलानने।
तस्यविस्तर्धि विभवैः धनदारादिसंपदाम्॥ 32||

वृद्धयेऽस्मत् प्रसन्ना त्वं भवेथाः सर्वदाम्बिके॥33||

ऋषिरुवाच॥

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः।
तथेत्युक्त्वा भद्रकाळी बभूवान्तर्हिता नृप॥34||

इत्येतत् कथितं भूप सम्भूता सा यथा पुरा।
देवी देव शरीरेभ्यो जगत्त्रयहितैषिणी॥35||

पुनश्च गौरीदेहा सा समुद्भूता यथाभवत्।
वथाय दुष्ट दैत्यानां तथा शुम्भनिशुंभयोः ॥36||

रक्षणाय च लोकानां देवानामुपकारिणी।
तत् श्रुणुष्व मयाख्यातं यथावत्कथयामि ते॥37||

इति श्री मार्कंडेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये शक्रादिस्तुतिर्नाम
चतुर्थोऽध्यायः॥
॥ ओम् तत् सत्॥
=====================================
updated 27 09 2022 1600